|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.259. अध्यायः 259
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
वायुना हैहयंप्रति कश्यपचरित्रकथनम्॥ 1 ॥ तथा उचथ्योपाख्यानकथनारम्भः॥ 2 ॥ सोमेन भद्राभिधायाः स्वकन्याया उचथ्याय भार्यात्वेन प्रदानम्॥ 3 ॥ पूर्वमेव तां कामितवता वरुणेन विजने तस्या अपहरणम्॥ 4 ॥ नारदात्तच्छ्रुतवतोचथ्येन कोपात्समुद्रे शोषिते भयाद्वरुणेनोचथ्याय पुनर्भद्राप्रत्यर्पणम्॥ 5 ॥
Mahabharata - Anushaasana Parva - Chapter Text
वायुरुवाच।
इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा।
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ॥ 13-259-1(91803)
धारिणीं सर्वभूतानामयं प्राप्य वरो नृपः।
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम्॥ 13-259-2(91804)
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम्।
अयं सराष्ट्रो नृपतिर्मार्भूदिति ततोऽगमत्॥ 13-259-3(91805)
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा।
प्रविवेश महीं सद्यो युक्तात्मा सुसमाहितः॥ 13-259-4(91806)
ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता।
धर्मोत्तरा नष्टभया भूमिरासीत्तमतो नृप॥ 13-259-5(91807)
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः।
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः॥ 13-259-6(91808)
अथागम्य महाराजन्नमस्कृत्यि च कश्यपम्।
पृथवी काश्यपी जज्ञे सुता तस्य महात्मनः॥ 13-259-7(91809)
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत्।
अन्यं प्रब्रूहि वा त्वं च कश्यपात्क्षत्रियं वरम्॥ 13-259-8(91810)
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीद्वचः।
शृणु राजन्नुचक्ष्यस्य जातस्याङ्गिरसे कुले॥ 13-259-9(91811)
भद्रा सोमस्य दुहिता रूपेण परमा मता।
तस्यास्तुल्यं पतिं सोम उचथ्यं समपश्यत॥ 13-259-10(91812)
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी।
उचथ्यं तु महाभागं तत्कृते वरयत्तदा॥ 13-259-11(91813)
तत आहूय चोचथ्यं ददामीति यशस्विनीम्।
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिणः॥ 13-259-12(91814)
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह।
स चागम्य वनप्रस्थं यमुनायां जहार ताम्॥ 13-259-13(91815)
जलेश्वरस्तु हृत्वा तामनयस्त्वं पुरं प्रति।
परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम्॥ 13-259-14(91816)
न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम्।
वासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम्॥ 13-259-15(91817)
तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः।
तदाख्यातमुचथ्याय ततः पत्न्यवमर्दनम्॥ 13-259-16(91818)
तच्छ्रुत्वा नारदात्सर्वमुचथ्यो नारदं तदा।
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः॥ 13-259-17(91819)
मद्वाक्यान्मुञ्च मे भार्यां कस्मात्तां हृतवानसि।
लोकपालोसि लोकानां न लोकस्य विलोपकः॥ 13-259-18(91820)
सोमेन दत्ता भार्या मे त्वया चापहृताऽद्य वै।
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः॥ 13-259-19(91821)
मुञ्च भार्यामुचथ्यस्य कस्मात्त्वं हृतवानसि।
इति श्रुत्वा वचस्तस्य सोऽथ तं वरुणोऽब्रवीत्॥ 13-259-20(91822)
ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे।
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम्।
उचथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव॥ 13-259-21(91823)
गले गृहीत्वा क्षिप्तोस्मि वरुणेन महामुने।
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत्॥ 13-259-22(91824)
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः।
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः॥ 13-259-23(91825)
पीयमाने तु सर्वस्मिंस्तोयेऽपि सलिलेश्वरः।
सुहृद्भिर्भिक्षमाणोऽपि नैवामुञ्चत तां तदा॥ 13-259-24(91826)
ततः क्रुद्धोऽब्रवीद्भूमिमुचथ्यो ब्राह्मणोत्तमः।
दर्शय स्वस्थलं भद्रे षट्सहस्रशतह्रदम्॥ 13-259-25(91827)
ततस्तदीरणं जातं समुद्रस्यावसर्पतः।
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः॥ 13-259-26(91828)
अदृश्या गच्छ भीरु त्वं सरस्वति मरून्प्रति।
अणुण्यभूषो भवतु देशस्त्यक्तस्तया शुभे॥ 13-259-27(91829)
ततश्चूर्णीकृते देशेक भद्रामादाय वारिपः।
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै॥ 13-259-28(91830)
प्रतिगृह्य तु तां भार्यामुचथ्यः सुमनाऽभवत्।
मुमोच च जगद्दुःखान्मरुतश्चैव निर्मलाः॥ 13-259-29(91831)
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित्।
उचथ्यः सुमहातेजा यत्तुच्छृणु नराधिप॥ 13-259-30(91832)
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप।
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ॥ 13-259-31(91833)
एष राजन्नीदृशो वै उचथ्यो ब्राह्मणर्षभः।
ब्रवीमि हान्यं ब्रूहि त्वमुचथ्यात्क्षत्रियं वरम्॥ ॥ 13-259-32(91834)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः॥ 259 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-259-3 भूमित्वं त्यक्त्वा ब्रह्मणः पदं गमिष्यामीति सम्बन्धः॥ 7-259-11 उचथ्यार्थे तु चार्वङ्गी परं नियममास्थिता। इति झ.पाठः॥ 7-259-12 सोमः ददामीत्युक्त्वा ददावित्यध्याहारेण योजना। ददावत्रिर्यशस्विनीमिति झ.पाठः। अत्रिः सोमपिता॥ 7-259-16 देवो वरुणः। तया भद्रकया॥ 7-259-25 दर्शयस्व बिलं भद्रे इति क.पाठः॥ 7-259-26 ईरिणं ऊषरप्रवेशः। समुद्रश्चापसर्पतेति क.पाठः॥ 7-259-27 अपुण्य एष भवित्विति झ.पाठः॥ 7-259-29 दुःखाद्वरुणं चैव हैहयेति झ.पाठः। जगद्वरुणं च दुःखान्मुमोच मोचयामास॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|